Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्री नरेन्द्रमोदी यूएई-देशस्य द्विदिवसीययात्रायां वर्तते। सः अबुधाबीनगरे 'अहलान् मोदी' इति कार्यक्रमं सम्बोधितवान्। सः अवदत्, 'अद्य भारतं यूएई च मिलित्वा एकविंशतिशतकस्य नूतनं इतिहासं लिखन्तौ स्त:। अद्य भारतस्य परिचयः नूतनविचारैः नूतनाविष्कारैः च निर्मितः अस्ति। अद्यत्वे भारतं प्रमुखं पर्यटनस्थलम् इति प्रसिद्धम् अस्ति। भवन्त: सर्वे जानन्ति यत् भारते या डीजीटल-क्रान्तिः अभवत् सा विश्वे प्रशंसिता अस्ति। भवन्त: अपि एतस्मात् लाभं प्राप्तुं शक्नुवन्ति।

भारतीयसमुदायं सम्बोधयन् पीएम मोदी उक्तवान् यत् एताः स्मृतयः आजीवनं मम समीपे एव स्थास्यन्ति। मम भ्रातरः भगिन्यः च, अहम् अद्य मम परिवारजनान् मेलितुं आगतः। समुद्रस्य पारं यस्यां भूमौ वयं जाता: तस्य मृत्तिकाया: सुगन्धं भवद्भ्यः आनीतवान् अस्मि। अस्माकं १४० कोटिभारतीयभ्रातृभगिनीनाम् अहं सन्देशं गृहीत्वा आगतः। एषः एव सन्देशः यत् भारतं भवतां विषये गर्वम् अनुभवति। भवन्त: देशस्य गौरवरूपा: सन्ति।'

 

अद्यतनवार्ता

भारतम्

विश्वम्