अन्तरिक्षयात्री शुभांशुशुक्लः अन्ये च त्रयः एक्सिओम्-४ अभियानं प्रति संलग्नाः अन्ताराष्ट्रिय-अन्तरिक्ष-स्थात्रे (ISS) १८ दिवसान् यावत् प्रवासं कृत्वा २२.५ घण्टानां यात्रां कृत्वा मङ्गलवासरे (१५ जुलै २०२५) पृथिवीं प्रत्यागतवन्तः। सर्वे अन्तरिक्षयात्रिका: ड्रैगन-अन्तरिक्षयानेन कैलिफोर्नियाप्रदेशस्य सैन् डिएगोक्षेत्रे अवतरत्। अन्तरिक्षात् प्रत्यागतस्य शुभांशुशुक्लस्य प्रथमं चित्रं प्रसारितमस्ति यत्र स: प्रसन्नवदन: अन्तरिक्षयानात् बहि: आगत्य अष्टादशदिवसानन्तरं गुरुत्वाकर्षणस्य अनुभवं कृतवान्।