Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

दिल्ली-पब्लिक-विद्यालय-सोसायटी इत्यस्य मानवसंसाधनविकासकेन्द्रद्वारा देहल्या: द्वारकाकेन्द्रे त्रिदिनात्मक: अभ्यासवर्ग: द्वितीयदिनाङ्कात् चतुर्थदिनाङ्कपर्यन्तम् आयोजित:। एतस्मिन् अभ्यासवर्गे आभारतात् द्विपञ्चाशत् शिक्षका: महतोत्साहेन भागम् अवहन्। वर्गेऽस्मिन् डॉ. ज्योतिराज: (प्रवाचिका, दूरदर्शनम्), गवीश: द्विवेदी (प्रवाचक:, दूरदर्शनम्), डॉ. सन्तोषकुमार: (प्राध्यापक:), श्री अरविन्द: गौड: (अस्मिता थिएटर), डॉ. बलरामशुक्ल: (प्राध्यापक:), डॉ. विभाकरदीक्षित:(विषयविशेषज्ञ:), प्रो. चान्दकिरणसलुजाजी (संस्कृतसंवर्धनप्रतिष्ठानम्) इत्यादय: शिक्षकेभ्य: विविधगतिविधिभि: मार्गदर्शनम् अयच्छन्। शिक्षका: आधुनिके युगे संस्कृतशिक्षणस्य आवश्यकता, शिक्षणपद्धतय:, पाठ्यक्रमनिर्धारणं, सूचनातन्त्रस्य प्रयोग:, भाषाविज्ञानम्, सञ्चारमाध्यमेषु संस्कृतस्य प्रयोग: इत्यादिषु विषयेषु मार्गदर्शनं प्राप्तवन्त:।

अद्यतनवार्ता

भारतम्

विश्वम्