जलवायुविभागेन अद्य ३१ राज्येषु केन्द्रशासितप्रदेशेषु च वर्षासचेतना उद्घोषिता। उत्तराखण्डे झारखण्डे च रक्तवर्णीयासचेतना अस्ति, अत्र प्रचण्डवृष्टेः भवितुं शक्नोति। मध्यप्रदेश-राजस्थानसहितेषु १२ राज्येषु प्रचण्डवृष्टेः नारङ्गवर्णीयसचेतना अस्ति। १७ राज्येषु वर्षायाः पीत-सचेतना अस्ति।
राजस्थाने रविवासरे २४ मण्डलेषु अपि प्रचण्डवृष्टिः अभवत् । राज्ये विद्युत्पातेन, जलमज्जनेन च ५ जनानां मृत्युः अभवत् । हिमाचलप्रदेशस्य ४ जनपदेषु सोमवासरे प्रचण्डवर्षाया: सचेतनाकारणेन विद्यालयाः पीहिता: सन्ति। एतावता राज्ये वर्षासम्बद्धेषु घटनासु २० जनाः मृताः। उत्तराखण्डस्य उत्तरकाशीनगरे मेघविस्फोटकारणेन २ जनयो: मृत्युः अभवत् । तीर्थयात्रिकाणां सुरक्षायाः कारणात् एकदिनं यावत् चरधामयात्रा स्थगिता।
ओडिशाराज्ये अनेकासां नदीनां जलस्तरः निरन्तरं वर्धमानः अस्ति । अद्य नद्यः समीपस्थेषु क्षेत्रेषु जलप्लावनस्य स्थितिः भविष्यति।