Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

चान्दनी इति पूर्णिमायाः प्रकाशः अपगतः। श्रीदेवी दिवङ्गता ।

स्वभ्रात्रीयस्य मोहितस्य विवाहार्थं गतवत्याः श्रीदेव्याः दुबईनगरे निधनमभवत्। सा तत्र पत्या पुत्र्या च सह गतवती आसीत्। हृदयाघातकारणात् सा दिवङ्गता।

श्रीदेव्याः जन्म १९६३ तमे वर्षे अगस्त मासस्य त्रयोदशदिनाङ्के  तामिलनाडुप्रान्ते अभवत्। तस्याः मूलनाम श्री अम्मा यांगेर अय्यपन आसीत्। तया तमील, तेलुगु, कन्नड, मलयालम एवं हिन्दी चलचित्रेषु कार्यं कृतमस्ति। पितुः नाम अय्यपन मातुः च नाम राजेश्वरी आसीत्। तया चतुर्थे वर्षे एव अभिनयस्यारम्भ कृतः आसीत्। हिन्दीचलचित्रेषु बालकलाकाररूपेण १९७५ तमे वर्षे जूली चलचित्रात् अभिनयस्य आरम्भः कृतः आसीत्। तया त्रिशताधिकचलचित्रेषु स्वाभिनयेन जनान् मुदितवती। अशीतितमे दशके तस्याः चान्दनी पूर्णप्रकाशिता आसीत्। स्वाभिनयकारणात् सा लेडी अमिताभबच्चननाम्ना अपि प्रसिद्धा जाता आसीत्। तस्याः उत्कृष्टेषु चलचित्रेषु हिम्मतवाला, तोहफ़ा, मिस्टर इंडिया, नागीन, सदमा, जांबाज, चान्दनी इत्यादयः सन्ति। १९९७ तमे वर्षे जुदाई इति चलचित्रस्य पश्चात् अनिलकपूरस्य ज्येष्ठभ्रात्रा बोनीकपूरेण सह विवाहानान्तरं सा सम्पूर्णा पारिवारिकमहिला जाता आसीत्। पञ्चदशवर्षाणामनन्तरं २०१२ तमे वर्षे इंग्लिश-विंगलिश चलचित्रात् सा पुनः अभिनयमारब्धवती । तस्याः अन्तिमं चलचित्रं मोम इति अस्ति। पञ्चपञ्चाशत् वयसि अपि सा अतीव ऊर्जावती सदैव प्रसन्नवदना प्रेरिका च आसीत्।

२०१३ तमे वर्ष् सा भारतसर्वकारेण पद्मश्री इति उपाधिना सम्मानिता। तस्याः चयनं ’ग्रेटेस्ट एक्ट्रेस इन १०० इयर्स’ इति राष्ट्रियमतदाने अपि अभवत्। स्वस्याभिनयजीवने तया पञ्चवारं फिल्मफेर-अवार्ड अपि प्राप्तम्।

अद्यतनवार्ता

भारतम्

विश्वम्