Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

संयुक्त-आरब-अमीरातस्य (युएई) अबुधाबीनगरे हिज-हाईनेस-प्रिन्स-क्राउनद एकस्य हिन्दुमन्दिरस्य कृते भूमिः धनं च समर्पितवान्। एतेन उपहारेण विश्वाय अयं सन्देशः प्रसरितः यत् केवलं धार्मिकः आध्यात्मिकः अन्तर्भावः एव वैश्विकबन्धुतायै अनुसरणीयः मार्गः अस्ति। अद्यत्वे यदा समग्रे विश्वे लघुविषयेषु अपि कलहाः वर्धन्ते तदा यु.ए.ई.सर्वकारद्वारा चेष्टितं नूतनाशाकिरणस्य सञ्चारं करोति। पदमिदं सहिष्णुतायाः प्रेरकम् उदाहरणमस्ति। संस्थायाः मुख्यप्रवक्त्रा कथितं यत् विश्वबन्धुतायै प्रतिबद्धयोः प्रिन्सक्राउन-इज-हाइनेस-शेखमोहम्मदबिनझायेदस्य भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः कृते संस्था कृतज्ञतां प्रकटयति।

नैकेभ्यः वर्षेभ्यः मध्यपूर्व-एशियाप्रदेशे संस्थायाः विविधानां प्रवृत्तीनां मार्गदर्शनं कुर्वता साधुना ब्रह्मविहारीदासेनोक्तं यत् यु.ए.इ. सर्वकारेण भारतसर्वकारेण च मन्दिरस्य आयोजनाय निर्माणाय सञ्चालनाय च संस्थायै आमन्त्रणं दत्तम् अस्ति। संस्थाद्वारा विश्वस्य नैकेषु देशेषु सहस्रशः मन्दिराणां निर्माणं कला-साहित्य-सुन्दरता-श्रेष्ठता-पर्यावरण-सामाजिकसेवाकार्यार्थं क्रियते। तदर्थं अनेकानि पारितोषिकानि अपि संस्थया प्राप्तानि सन्ति।

मन्दिरस्यास्य निर्माणं दुबइ-अबुधाबी-राजमार्गे अबु-मुरैखाहविस्तारे भविष्यति। शिल्पकार्यं भारतस्य शिल्पकारैः भारते एव भविष्यति ततः शीलादयः अबुधाबी नगरे आनीय विशालसङ्कुलस्य निर्माणं भविष्यति। द्विसहस्रविंशतितमे वर्षे एतस्य कार्यं पूर्णं भविष्यति। अस्य देवस्थानस्य परिसरे यात्रिककेन्द्र-प्रार्थनागृह-प्रदर्शन-प्रशिक्षणस्थान-क्रीडाङ्गण-उद्यान-आहारगृह-विक्रयणकेन्द्रादीनां निर्माणं भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्