Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य राष्ट्रराजधान्या: दिल्लीनगरस्य अनेकेषु क्षेत्रेषु सामान्यवृष्टिः जाता। तदनन्तरं राजधान्यां वर्धमानस्य तापमानस्य निवृत्तिः प्राप्ता। गतदिनेषु तप्ततापस्य कारणेन दिल्लीनगरस्य स्थितिः दुर्गता आसीत्। अधुना वातावरणं सुखदम् अभवत्। अस्मिन् सप्ताहे तृतीयवारं वर्षा अभवत्, तदन न्तरं कष्टप्रदतापात् किञ्चित् उपशमः अभवत्। अन्येषु केषुचित् राज्येष्वपि पश्चिमविक्षोभकारणात् वृष्टे: सम्भावना वर्तते ।


 

अद्यतनवार्ता

भारतम्

विश्वम्