Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्री नरेन्द्रमोदी चीनदेशस्य राष्ट्रपतिः शी चिनपिंगः चेति नेत्रयोः मध्ये भारत-चीन-सीमान्तक्षेत्रेषु शान्ति-संयम-सन्धारणाय परिचर्चा अभूत्। चीनदेशस्य वुहाननगरे द्वयोः नेत्रोः द्विदिवसीय-अनौपचारिक-शिखरवार्तायाः समाप्त्यवसरे विदेशसचिवेन विजयगोखलेवर्येण वार्ताहराः सूचिताः यत् देशयोर्मध्ये संवादं पारस्परिक-सदृढ-सम्बन्धं च समेधितुं द्वावपि नेतारौ निर्णयं कृतवन्तौ। एतदर्थं देशयोः सैन्यबले कूटनीतिकदृष्ट्या दिशानिर्देशान् प्रदास्यन्ते। अपि च आतङ्कवादस्य उन्मूलनाय पारस्परिक-व्यापार-निवेशौ च संचर्धनार्थं नेतारौ सहमतिं प्रकटितवन्तौ। संवादानन्तरं प्रधानमन्त्री दिल्लीं प्रति प्रस्थितः।

अद्यतनवार्ता

भारतम्

विश्वम्