Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

हमास-आक्रमणस्य प्रतिक्रियारूपेण इजरायल-देशः गाजा-पट्टिकायां १७ सैन्य-परिसरेषु, ४ सैन्य-मुख्यालयेषु चोपरि आक्रमणं कृतवान् । आक्रमणेऽस्मिन् १९८ फिलिस्तानजनाः मृताः, १६०० तः अधिकाः जनाः घातिताः सन्ति। अलजजीरा इत्यस्य मतेन १००० तः अधिकाः फिलिस्तानजनाः इजरायलदेशं प्रविष्टाः सन्ति। १९४८ तमस्य वर्षस्यानन्तरं प्रथमवारं एतत् अभवत्। 

गाजापट्टिकातः आक्रमणानन्तरं इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू युद्धस्य घोषणां कृतवान् आसीत्। मन्त्रिमण्डलेन सह आपत्कालीनसमागमानन्तरं सः उक्तवान् आसीत् – एतत् युद्धम् अस्ति, वयं अवश्यमेव एतत् विजयं प्राप्स्याम:। अस्य मूल्यं शत्रुभिः दातव्यं भविष्यति।

इजरायलदेशस्य दुर्वहावस्थां समीक्ष्य भारतीयदूतावासेन तत्र उपस्थितानां स्वनागरिकाणां कृते अवधानसन्देश प्रसारित: अस्ति। अपि च इजरायलदेशं प्रति भारतं प्रति गमनागमनाय च विमानयानानि स्थगितानि सन्ति। प्रधानमन्त्री मोदी इत्यनेन उक्तं यत् भारतं कठिनसमये इजरायलस्य जनै: सह अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्