Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

'वारिस पंजाब दे' इत्यस्य अध्यक्षस्य अमृतपालसिंहस्य आधिपत्ये तस्त सहस्रशः समर्थकाः गुरुवासरे पंजाबस्य अजनाला आरक्षकालये आक्रमणं कृतवन्तः। परन्तु आरक्षकैः किमपि कार्यं न कृतम् । अमृतपालः खलिस्तानस्य समर्थकः अस्ति । अस्मिन् विषये आरक्षकैः कापि प्रतिक्रिया न कृता इति कारणेन प्रश्नाः उत्पद्यन्ते। पंजाब-आरक्षकाधिकारी हरपालसिंह: रान्धवा उक्तवान् यत् आक्रमणकारिण: असिभिः भुशुण्डिभिः च गृहीत्वा आगतवन्तः। तेषां पार्श्वे श्रीगुरुग्रन्थसाहबस्य पवित्रं स्वरूपम् अपि आसीत् । अत एव आरक्षकैः किमपि न कृतम्। अमृतपालसिंहः स्वसमर्थकस्य लवप्रीत तुफानस्य विरुद्धं प्रकरणस्य पञ्जीकरणस्य विरोधं कुर्वन् आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्