पाकिस्तानस्य विरुद्धं भारतस्य ऑपरेशन सिन्दूर इत्यत्र पाकिस्तानं भारतस्य क्षते: प्रतिपादनं कुर्वन् अस्ति। विषयेऽस्मिन् आईआइटी मद्रास इत्यत्र भाषणं कुर्वन् डोभालः उक्तवान् यत् ऑपरेशन सिन्दूर इत्यस्मिन् विषये वैदेशिकप्रचारमाध्यमै: मिथ्या वार्ता: प्रसारिताः सन्ति। अस्मिन् कार्ये भारतस्य कापि क्षतिः न जाता । एकं चित्रमपि दर्शयतु यस्मिन् भारतस्य क्षतिः अभवत्। एक: चषक: अपि भग्नः नास्ति। केषाञ्चन चित्राणाम् आधारेण ते पाकिस्तानस्य १३ वायुसेनास्थात्राणां विषये चर्चां कुर्वन्त: सन्ति परन्तु मे १० दिनाङ्कात् पूर्वं पश्चात् च एतेषां स्थात्राणाम् उपग्रहचित्रं पश्यन्तु, चित्रं स्पष्टं भविष्यति इति।