Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीयनौसेनाया एकः नूतनः इतिहासः निर्मितः अस्ति यत्र सबलेफ्टिनेंट आस्था पूनीया प्रथमा महिला युद्धविमानचालिका अभवत् । अधुना यावत् महिलाविमानचालकाः नौसैनिकगुप्तचरविमानानि उदग्रयानानि च चालयन्ति स्म, परन्तु आस्था इदानीं युद्धविमानं चालयिष्यति, येन देशस्य सुरक्षायां तस्याः भूमिका अधिका महत्त्वपूर्णा भविष्यति। 

भारतीयनौसेनाया: X इति माध्यमे सन्देश: अस्ति यत् 'नौसेना-उड्डयने एक: नूतनः अध्यायः योजितः अस्ति।' भारतीयनौसेनया 03 जुलाई 2025 दिनाङ्के नौसेनावायुस्थानके द्वितीयं बेसिक-हॉक-कन्वर्झन-पाठ्यक्रमं सम्पन्नं कृत्वा ऐतिहासिकं चिह्नं स्थापितमस्ति। लेफ्टिनेंट अतुलकुमारधूलः, एस.एल.टी आस्था पूनीया च प्रतिष्ठितं 'विङ्ग्स् आफ् गोल्ड' पुरस्कारं, रियर एड्मिरल् जनक बेवली, ए.सी.एन.एस. (एयर) द्वारा प्राप्तवन्तौ।

अद्यतनवार्ता

भारतम्

विश्वम्