Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

वडोदराजनपदस्य महिसागरनद्याः गम्भीरसेतुदुर्घटनायाम् अद्य तृतीयदिनेऽपि उद्धारकार्यं प्रचलति। एतावता आहत्य १८ जनाः प्राणान् त्यक्तवन्तः । अद्यापि केचन लुप्ता: इति कारणेन मृतानां संख्या वर्धिष्यते इति संभावना वर्तते। देशे वर्धमानस्य सेतुपतनस्य संख्यां विचार्य केन्द्रीयपरिवहनमन्त्री नितिनगडकरी कठोरं पदम् अङ्गीकृतवान् इति घोषितवान्। सः अवदत् यत् ये अधिकारिणः संविदाकारा: च दुर्बलं कार्यं कुर्वन्ति तेषां अन्वेषणं आरब्धमस्ति। ये ज्ञात्वा भ्रष्टाचारं कृतवन्त: तेषां विरुद्धं कठोरपदं निश्चयेन भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्