Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केन्द्रीय-अल्पसङ्ख्यककार्यमन्त्री किरेनरिजिजु उक्तवान् आसीत् यत् दलाई-लामा स्वस्य इच्छानुसारं स्वस्य उत्तराधिकारिण: चयनं कर्तुं शक्नोति। विषये‍ऽस्मिन् चीनदेशेन स्व-आपत्तिं प्रकटयन् उक्तं यत् भारतं भारतं तिब्बतसम्बद्धेषु विषयेषु सावधानीपूर्वकं कार्यं कुर्यात् येन द्विपक्षीयसम्बन्धे तस्य प्रभाव: न भवेत्।

चीनस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः पत्रकारसम्मेलने अवदत् यत् भारतं १४ तमस्य दलाईलामायाः चीनविरोधि-पृथक्तावादि-स्वरूपस्य विषये स्पष्टं भवेत् तथा च शिजाङ्ग (तिब्बत) सम्बद्धेषु विषयेषु स्वप्रतिबद्धतायाः सम्माननं कुर्यात्।

अद्यतनवार्ता

भारतम्

विश्वम्