Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

डोनाल्डट्रम्पः शनिवासरे अवदत् यत् मार्चमासस्य २१ दिनाङ्के सः गृहीतुं शक्यते। सः स्वसमर्थकान् तस्य विरोधं कर्तुं आह्वानं कृतवान्। सः अवदत् - विरोधं कृत्वा अस्माकं देशस्य समर्थनं कुर्वन्तु परन्तु आरोपाः के भविष्यन्ति इति तेन न उक्तम्।

विवरणानुसारं २०१६ तमस्य वर्षस्य राष्ट्रपतिनिर्वाचनात् पूर्वं ट्रम्पस्य एकया अश्लीलनायिकया सह सम्बन्धः आसीत्। सः तस्याः प्रकरणस्य गोपनार्थं बहु धनं दत्तवान् आसीत्। न्यूयॉर्कनगरे विगतेभ्यः ५ वर्षेभ्यः प्रकरणास्य अन्वेषणं चलति। अस्मिन् एव प्रकरणे तस्य निग्रहणं भवितुं शक्नोति।

अद्यतनवार्ता

भारतम्

विश्वम्