Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केनेडानगरे खलिस्तानसमूहस्य सिक्ख्स् फॉर जस्टिस (SFJ) इत्यस्य सदस्यैः पुनः भारतीयपरिवारस्य उपर्याक्रमणं कृतम्। समग्रः विषयः अस्ति यत् केनेडादेशस्य एबट्स्फोर्ड्नगरे वानकुवर-दूतावासस्य भारतीय-उच्चायोगेन एक: कार्यक्रम: आयोजितः आसीत्। एतस्मिन् यदा कश्चन भारतीयपरिवारः भूमौ पतितं भारतीयराष्ट्रध्वजं उद्धर्तुं प्रयत्नं कृतवान् तदा तेषामुपरि खलिस्तानसमूहेन आक्रमणं कृतम्। परिवारेऽस्मिन् वृद्धः, तस्य पुत्रः, पौत्रः च आसन्। अयं वृद्धः स्वजीवनप्रमाणपत्रं दातुं गुरद्वारासाहिब इत्यत्र आगतः। खलिस्तानसमर्थकाः पूर्वं बहुवारं भारतीयराष्ट्रध्वजस्य अपमानं कृतवन्तः।

अद्यतनवार्ता

भारतम्

विश्वम्