Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्राप्तवार्तानुसारं राजधान्या: रांचीनगरस्य नामकुमपुलिसस्थात्रे एषा घटना अभवत्। अत्र सदाबहारचौकक्षेत्रे एकस्यां वीथ्यां अवकरसञ्चये विस्फोटः अभवत् इति कथ्यते। अस्मिन् विस्फोटे एकः कर्मचारी गम्भीररूपेण घातितः अस्ति, ततः सः चिकित्सालयं प्रेषितः अस्ति। स: कर्मचारी बन्टी इति संज्ञानं जातम्। अपरपक्षे विस्फोटस्य सूचनां प्राप्य पुलिसदलः बम्बनिष्कासनदलः अपि तत्स्थानं प्राप्तवन्तः। विस्फोटः एतावान् प्रचण्डः आसीत् यत् २ किलोमीटर् दूरं यावत् विस्फोटध्वनि: श्रूत:। सम्प्रति विस्फोटकारणानि ज्ञातुम् अन्वेषणं आरब्धम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्