Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

ब्रिटेनदेशे खालिस्तानस्य विरोधं कृतवत्सु सिक्खेषु खालिस्तानसमर्थकानाम् आक्रमणम् आरब्धम्। ते कथञ्चिदपि तान् तेषां परिवारजनान् च भर्त्सयन्ति। सद्य: एव एकस्य प्रसिद्धस्य उपाहारगृहस्य स्वामिन: हरमनसिंहस्य गृहात् बहि: यानेषु वर्णा: क्षिप्ता: भर्त्सनं च दत्तम्। हरमनसिंहेनोक्तं यत् स: सर्वदा खालिस्तानस्य विरोधं कुर्वन् अस्ति। गतेभ्य: 8 मासेभ्य: स: भर्त्सनानि प्राप्नोति। तस्योपरि अधुना यावत् चत्वारि आक्रमणानि जातानि। खालिस्तानसमर्थका: तस्य गृहसङ्केतं दूरभाषक्रममपि प्रसारितवन्त:। तस्य परिवारेण सह दुष्कर्मकर्त्रे पारितोषिकं दातुम् आह्वानमपि कृतमस्ति। 

 

अद्यतनवार्ता

भारतम्

विश्वम्