Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केनेडादेशस्य सर्वकार: आतङ्कवादविषये मृदुतां प्रकटयति। तत्र खालिस्तान-मतप्रभाव: अस्ति। इति जयशङ्करस्य कथनस्य प्रत्युत्तरे केनेडादेशस्य प्रधानमन्त्री जस्टिन ट्रूडो भारतस्य आरोप: अयोग्य: इति उक्तवान्। स्वसर्वकारस्य रक्षणं कुर्वन् ट्रुडो अवदत् – भिन्नविचारधारिणः जनाः केनेडादेशे निवसन्ति अत्र च सर्वेषां स्वविचारान् वक्तुं अधिकारः अस्ति।

केनेडादेशस्य प्रधानमन्त्रिणः मतेन तस्य सर्वकारः आतङ्कवादस्य विषये अतीव गम्भीरः अस्ति तथा च खालिस्तानसमर्थकानां प्रति तस्य दृष्टिकोणः मृदु: इति चिन्तन अयोग्यम्। गतमासे भारतस्य विदेशमन्त्री जयशङ्करः केनेडासर्वकार: खलिस्तानसमर्थकानां विरुद्धं मतप्रभावकारणात् कार्यवाहीं न करोति इति आरोपं कृतवान् आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्