Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सीमाविवादस्य अनन्तरं भारत-चीनदेशयोः इदानीं पत्रकारेभ्यः दत्ताया: प्रवेशानुमते: विषये विवाद: अभवत्। चीनदेशः भारतं स्वपत्रकाराणां वीजा इति प्रवेशानुमते: नवीकरणं न करोति इति आरोपं कृत्वा कठोरकार्यवाहीं कर्तुम् उच्चारितमस्ति। अमेरिकादेशस्यमा प्रसारमाध्यमगृहस्य वालस्ट्रीट् जर्नल् इत्यस्य प्रतिवेदनानुसारं द्वयोः देशयोः परस्परं पत्रकारा: स्वस्वदेशात् निष्कासिता: सन्ति।

अस्य कारणात् १९८० तः परं प्रथमवारं भारते चीनीयपत्रकारः नास्ति इति घटितम्। प्रतिवेदनानुसारं भारतेन चीनस्य शिनहुआ ब्रोडकास्टर CCTV च इति राजकीयसमाचारसंस्थायाः पत्रकारद्वयस्य प्रवेशानुमते: नवीकरणं कर्तुं न अस्वीकृतम्। चीनदेशस्य विदेशमन्त्रालयेन अपि बुधवासरे एतत् स्पष्टीकृतम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्