Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

ताइवानदेशस्य समुद्रसीम्नि नियोजित: अमेरिकनयुद्धपोतस्य सन्मुखं चीनस्य सैन्यपोत: आगत:। उभयोः युद्धपोतयोः अन्तरं केवलं १५० मीटर् एव आसीत् । तदनन्तरं चीनदेशस्य युद्धपोत ततः प्रस्थित:।

गतसप्ताहे अस्मिन् क्षेत्रे अमेरिकादेशस्य गुप्तचरविमानस्य पुरतः चीनदेशस्य युद्धविमानम् आगतम्। अमेरिकादेशस्य रक्षामन्त्री लॉयड् ऑस्टिन् अवदत् - वयं कमपि संघर्षं न इच्छामः। यदि एतत् भवति तर्हि अमेरिकादेशस्य प्रतिक्रियायाः अधिकारः अस्ति।

अमेरिकी-इण्डो-पैसिफिक-कमाण्ड्-संस्थायाः विज्ञप्तौ उक्तम् – अस्माकं युद्धपोतस्य पुरतः चीनीय-नौसेनायाः जहाजस्य आगमनेन सिद्धं भवति यत् चीनदेशः सङ्घर्षं इच्छति | यदि एवम् अस्ति तर्हि अमेरिका अवश्यमेव उत्तरं दास्यति। सप्ताहे द्वितीयवारं चीनदेशेन उत्तेजकं कार्यं कृतम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्