Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पश्चिमयूरोपस्य बहुषु देशेषु सियरान-चक्रवातेन विनाश: जात: अस्ति। फ्रान्स-इङ्ग्लैण्ड्-देशयोः अनन्तरं अधुना इटलीदेशे अस्य चक्रवातस्य प्रभावेण विनाशस्य वर्षा दृश्यते। विक्रमजनकविध्वंसकवृष्ट्या गृहाणि, चिकित्सालयाः अन्यभवनानि च जलप्लाविता: जाता: सन्ति। सूचनानुसारं गतरात्रौ इटलीदेशे सियारन-चक्रवातेन प्रचण्डवृष्ट्या टस्कनीनगरस्य विशाले भागे जलप्रलय-सदृशी स्थितिः निर्मिता। जनाः स्वगृहात् बहिः गन्तुं न शक्तवन्तः, चिकित्सालयाः जलप्लाविताः, बहूनि वाहनानि अपि नष्टानि आसन्। न्यूनातिन्यूनं त्रयः जनाः प्राणान् त्यक्तवन्तः इति कथ्यते । आहत्य पश्चिमयुरोपे चक्रवातसम्बन्धासु घटनासु मृतानां संख्या १० यावत् वर्धिता अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्