Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

आप-कंग्रेस-भाजपादलानां प्रतिष्ठाप्रश्नस्य निर्वाचनपरिणामस्य सम्भावना जनमुखे समग्रे भारते चर्च्यते। अद्यैव गुजरातस्य विधानसभायाः द्वितीयचरणस्य मतदानं परिपूर्णम्। अष्टमदिनाङ्के गुजरातस्य हिमाचलप्रदेशस्य च विधानसभायाः, देहल्याः नगरपालिकानिर्वाचनस्य च परिणामः उद्घोषितः भविष्यति। वार्ताप्रसारणवाहिन्याः भविष्यकथनं सर्वेषां नेतॄणां मनसः शान्तिं हरति। सम्भावनानुसारं गुजराते भूपेन्द्रः गुजरातभूपः भवितुं शक्नोति। देहल्याः नगरपालिकानिर्वाचनस्य परिणामः अरविन्दस्य पक्षे भवितुं शक्नोति। हिमाचले भाजपाकोंग्रेसयोः मध्ये तीव्रस्पर्धा भवितुं शक्नोति। यत्किमपि भवतु परन्तु अद्यत्वे शीतकाले नेतॄणां प्रस्वेदः जायते।

अद्यतनवार्ता

भारतम्

विश्वम्