Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मुख्यमन्त्री मनोहरलालखट्टरः गृहमन्त्री अनिलविजः च प्रतिपादितवन्तौ यत् ३१ जुलै दिनाङ्के हरियाणादेशस्य नुहनगरे या हिंसा प्रारब्धा सा पूर्वनियोजिता आसीत्। प्राप्तविवरणानुसारं योजनान्तर्गतमेव मध्ये आगतानि त्रीणि पुलिसस्थानकानि त्यक्त्वा साइबरपुलिसस्थानकस्य दहनं किमर्थम् अभवत्? अस्याः हिंसायाः सन्दर्भ: एप्रिल-मासस्य २८ दिनाङ्के नुह-नगरे १४ ग्रामेषु जातै: पुलिस-अभियानैः सह अस्ति इति मन्यते। नुहप्रदेशे साइबर-अपराधा: वर्धिता: आसन् अपि च प्रदेशोऽयं साइबर-अपराधकेन्द्रं जायमानम् आसीत् अत: एप्रिलमासे ५००० आरक्षकै: मिलित्वा नुह-ग्रामेषु आहत्य ३२० स्थानेषु आपात: कृत: आसीत्। १२६ जनाः निरुद्धाः, ६६ जनाः च गृहीताः। २९ एप्रिल दिनाङ्के बिछौर-पुनहाना-आरक्षकालयेषु ११ प्राथमिक्य: पञ्जीकृताः। एतेषां सर्वेषां एफआइआर-सम्बद्धानि प्रतिवेदनानि अभिलेखा: च नुह-साइबर-अपराधकेन्द्रे सुरक्षितानि आसन्।

अद्यतनवार्ता

भारतम्

विश्वम्