Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रूसस्य राष्ट्रपते: व्लादिमीर पुतिनस्य स्वास्थ्यस्य विषये मासेभ्य: अनुमानं प्रचलति स्म। स: हृदयरोगेण ग्रस्त: अस्ति इति एतस्या: वार्ताया: टेलीग्राम ग्रुप जनरल एसवीआर इत्यनेन पुष्टि: कृता अस्ति। अस्य संस्थायाः कथनमस्ति यत् ते रूसदेशस्य सेवानिवृत्तगुप्तचरपदाधिकारिभ्यः अधिकारिभ्यः च सूचनां प्राप्नुवन्ति। टेलिग्रामसमूहस्य इयं वार्ता ब्रिटिशवार्तासंस्थाभिः द मिरर, जीबी न्यूज, द एक्स्प्रेस इत्यादिभिः प्रकाशिता अस्ति। वार्तानुसारं रविवासरे रात्रौ प्रायः ९.०५ वादने हृदयाघातकारणेन स: यदा पतित: तदा भोजनपात्राणि अपि पतितानि। यदा तस्य ध्वनिना संरक्षका: प्रकोष्ठं प्राप्तवन्त: तदा तलस्य उपरि पतित: प्राप्त:। शीघ्रमेव चिकित्सकेन प्राथमिकचिकित्सा दत्ता अपि च यस्मिन् स्वास्थ्यसुविधा: उपल्भ्यन्ते तस्मिन् प्रकोष्ठे स: स्थानान्तरित:। अत्र एतत् उल्लेखनीयं यत् रूसस्य राष्ट्रपतिः कर्करोगसहितैः अन्यैः अनेकैः रोगैः पीडितः अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्