Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अलकादिरट्रस्ट्-काण्डप्रकरणे गृहीतस्य पाकिस्तानस्य पूर्वप्रधानमन्त्रिणः इमरानखानस्य ८ दिवसानां कृते राष्ट्रियजवाबदेहीब्यूरो (NAB) इत्यस्य क्रारागृहप्रेषणम् जातम्। इमरानस्य दलस्य पाकिस्तान तहरीक-ए-इन्साफ् (PTI) इत्यस्य समर्थकानां बुधवासरे अपि सुरक्षाबलैः सह हिंसकसङ्घर्षः अभवत्।

हिंसायाम् अष्टजनाः मृताः। पञ्जाब-खैबर-पख्तूनख्वाराज्ययोः सेना नियोजिता अस्ति । सिन्ध-बलूचिस्तान-राज्ययोः अपि हिंसा प्रचलति । चाङ्गक्षेत्रे परमाणुसुविधायां विशेषसैन्यदलः नियोजित: अस्ति।

अस्थायीन्यायालये उपस्थिति:

बुधवासरे इमरानः एन.ए.बी. इत्यस्य अस्थायीन्यायालये उपस्थितः। अन्वेषणसंस्थया १४ दिवसान् यावत् पृच्छा याचिता, न्यायालयः तदङ्गीकृतम्। एन.एन.बी.द्वारा खानस्य पत्नी बुशरा इत्यस्याः अपि निग्रहणं याचितम् परन्तु न्यायालयेन अनुमोदनं न कृतम्।

अन्तर्जालः निष्क्रियः

इस्लामाबादनगरे रेड अलर्ट् अस्ति। विदेशीयदूतावासानाम् कर्मचारिभ्यः बहिर्गमनाय निषेधः उपदिष्टः अस्ति। देशे अन्तर्जालः निष्क्रियः अस्ति। विद्यालयाः महाविद्यालयाः च दिवसद्वयं यावत् पीहिताः सन्ति। खानस्यस्य विरुद्धं सर्वकारीयकोषात् उपहारविक्रयणस्य प्रकरणे अपि आरोपः कृतः अस्ति । यदि दोषी सिद्धः भवति तर्हि सः आजीवनं निर्वाचनं कर्तुं न शक्नोति।

अद्यतनवार्ता

भारतम्

विश्वम्