Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पाकिस्तानस्य पञ्जाबप्रान्तस्य अस्थायिसर्वकारेण बुधवासरे उक्तं यत् – लाहौरस्य ज़मानपार्कक्षेत्रे इमरानखानस्य गृहे ४० उवद्रवकारिणः निगूढाः सन्ति। यदि २४ घण्टाभ्यन्तरे सुरक्षाबलानाम् हस्ते न समर्प्यन्ते तर्हि कार्यवाही भविष्यति। तदनन्तरं रेन्जर्-सैनिकाः खानस्य गृहं परितः स्थिताः सन्ति।

अपरपक्षे इमरानः समर्थकानां नामधेयेन एतत् चलत्चित्रं प्रसारितवान् अस्ति। तत्र उक्तम्- ग्रहणस्य व्याजेन मम वधार्थं षडयत्रं क्रियमाणम् अस्ति। मम गृहं परिवृतम् अस्ति। यदि किमपि भवति तर्हि सेना उत्तरदायी भविष्यति।

१८ मार्च दिनाङ्के यदा आरक्षकाः खानस्य ग्रहणार्थम् अत्र गतवन्तः तदा तेषाम् उपरि आक्रमणं जातमासीत्। आक्रमणे‍ऽस्मिन् ६३ पुलिसकर्मचारिणः घातिताः।

 

अद्यतनवार्ता

भारतम्

विश्वम्