Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

इजरायलहमासयोः युद्धं गत १३ दिवसेभ्यः प्रचलति। इजरायल हमाससङ्घटनेन आरब्धस्य युद्धस्य प्रतिशोधाय प्रतिक्रियां ददाति। इजरायलस्य रक्षासेना गाजापट्टिकायां प्रचण्डं आक्रमणं कुर्वन् अस्ति। गाजानगरस्य अल अहली-चिकित्सालये विस्फोटः अभवत् यस्मिन् ५०० जनाः मृताः सन्ति। परन्तु इजरायलदेशः कथयति यत् एतत् आक्रमणं तै: न कृतम्, हमास-सङ्घः इजरायलदेशं अस्य आक्रमणस्य उत्तरदायी इति प्रतिपादयति। इजरायलदेशेन उक्तं यत् ते संयुक्तराष्ट्रपरिषदे प्रमाणं प्रदास्यति यत् एतत् आक्रमणं इजरायलदेशेन न कृतम् इति। एतेन सह अमेरिकादेशेन ९ सदस्या: प्रतिबन्धिता:। इजरायलस्य विदेशमन्त्रालयेन उक्तं यत् हमासद्वारा अत्याचार: कृत: अस्ति। अहं इस्राएलजनेभ्य: वक्तुम् इच्छामि यत् तेषां साहसं, तेषां प्रतिबद्धता, तेषां शौर्यं च अद्भूतम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्