Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अयोध्यायां बालरामस्य  प्राणप्रतिष्ठामहोत्सवस्य अभिषेकानन्तरं रामनगर्यां भक्तानाम् जनाप्लाव: निरन्तरं दृश्यते। विगत २१ दिवसेभ्यः सार्धद्विलक्षं भक्ताः प्रतिदिनं बालरामस्य दर्शनार्थमागच्छन्ति। प्रातः ६:३० वादनतः रात्रौ १० वादनपर्यन्तं निरन्तरं मन्दिरम् उद्घाटितं भवत। बाल: राम: किञ्चिदपि विश्रामं न प्राप्नोति। राममन्दिरन्यासस्य महासचिवः चम्पत रायः अयोध्यायां जनसमूहस्य विषये उक्तवान् यत् बालरामस्य १५ घण्टां यावत् जागरणं न उचितम्। पञ्चवर्षीयः बालकः अपि विश्रामं प्राप्नुयात्।

अद्यतनवार्ता

भारतम्

विश्वम्