Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

दिल्ली-नगरस्य रामलीला-मैदान-स्थले जमियत-उलेमा-ए-हिन्दस्य अधिवेशनस्य अन्तिमे दिने  मौलाना-अर्शद-मदनी-इत्यस्य वक्तव्यस्य अनन्तरं महान् कोलाहलः समुद्भूतः। “हिन्दूनां मुसलमानानां च पूर्वजाः समानाः सन्ति।” इति आर.एस.एस.-सरसङ्घचालकस्य वक्तव्यस्य प्रत्युत्तरे तेनोक्तम् आसीत् यत् भवतः पूर्वजाः हिन्दवः न आसन्, ते मनवः आसन् अर्थात् आदम इति। तस्य वचनस्य विरोधे सम्मेलने उपस्थिताः विविधाः धर्मगुरवः मञ्चात् निर्गतवन्तः । तेनोक्तं आसीत् यत् - अहं पृच्छामि यत् यदि तदा तत्र कोऽपि नासीत् तदा तत्र श्रीरामः न आसीत्, न ब्रह्मा, न शिवः। तर्हि मनुः कं पूजितवान् यदा कोऽपि नासीत्। केचन वदन्ति यत् मनुः शिवं पूजयति स्म। अत्यल्पाः वदन्ति यत् मनुः ॐकारं पूजितवान् इति। कः ॐकारः ? अस्य रूपं वर्ण: वा नास्ति इति बहवः जनाः अवदन् । ॐकार: लोके सर्वत्र अस्ति। वयं तं अल्लाह: इति वदामः। भवन्तः ईश्वर: इति वदन्ति।

जैनमुनि: लोकेशः मौलानामदनी इत्यस्य वक्तव्यस्य विरोधं कृतवान् । जनान् संयोजयितुं यदि एतत् अधिवेशनं प्रचलति तर्हि एतादृशं निवेदनं न योग्यम्  इति उक्त्वा सः कार्यक्रमात् निर्गतवान्। अन्यधर्मस्य धर्मगुरवः अपि तदनु कार्यक्रमं त्यक्तवन्तः ।

अद्यतनवार्ता

भारतम्

विश्वम्