Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

देशस्य केषुचित् राज्येषु कोरोना-१९ इत्यस्य उपरूपस्य JN.1 इत्यस्य प्रकरणानि प्रादुर्भूतानि सन्ति इति कारणेन केन्द्रसर्वकारेण राज्यसर्वकारेभ्यः च सचेतना कृता अस्ति। नीति-आयोगसदस्यः (स्वास्थ्यम्) डॉ. वी.के.पॉलः अद्य अवदत् यत् भीते: आवश्यकता नास्ति। वैज्ञानिकाः एतस्य नूतनस्य विषाणो: उपरि निरीक्षणं कुर्वन्त: सन्ति। पूर्वसिद्धता, सततं परीक्षणं च आवश्यकमस्ति।

केन्द्रेण सर्वेषु राज्येषु सर्वेषु मण्डलस्वास्थ्यसुविधासु इन्फ्लूएन्जासदृशरोगस्य, गम्भीरतीव्रश्वसनरोगस्य च प्रकरणेषु विशेषं ध्यानं दातुं उपदिष्टमस्ति। विगत २४ घण्टेषु कोरोनारोगस्य ३४१ प्रकरणानि पञ्जीकृतानि। यस्मिन् केरलदेशे त्रयः जनाः मृताः। केन्द्रीयस्वास्थ्यमन्त्रालयस्य अनुसारं केरलदेशे २९२, तमिलनाडुदेशे १३, महाराष्ट्रे ११, कर्नाटकदेशे ९, तेलङ्गाना-पुडुचेरी-देशे ४, दिल्ली-नगरे ३, गुजरात-देशे २, पञ्जाब-गोवा-देशे च एकैकं कोरोना-प्रकरणानि प्राप्तानि। देशे सक्रियप्रकरणानाम् संख्या २३११ अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्