Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य अपराह्णे बापटलाजनपदस्य समीपे दक्षिण-आन्ध्रप्रदेशस्य तटं प्रतिहोरं ९०-१०० वेगेन प्रचण्ड: चक्रवात: माइचौंग प्राप्त: आसीत्। अमरावती वातावरणविभागस्य केन्द्रस्य एकः अधिकारी अवदत् यत् अयं चक्रवात: उत्तरदिशि गत्वा चक्रवातरूपेण दुर्बलः भवितुम् अर्हति। आधिकारिकवक्तव्यस्य अनुसारं पश्चिममध्यबङ्गस्य खातस्य उपरि निर्मितं वातावरणं विगत ६ घण्टासु दक्षिण-आन्ध्रप्रदेशतटस्य उपरि ११ कि.मी./घण्टायाः वेगेन उत्तरदिशि गत:। एतेन नैकेषु स्थानेषु जलाप्लवस्य स्थितिरपि समुत्पन्ना। अग्रेऽपि तीव्रवर्षाया: सम्भावना वर्तते।

अद्यतनवार्ता

भारतम्

विश्वम्