Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

टेस्ला संस्थापकः मुख्यकार्यकारी च एलोनमस्कः बुधवासरे अमेरिकादेशस्य राजकीयप्रवासार्थं आगतेन भारतीयप्रधानमन्त्रिणा नरेन्द्रमोदिना सह मिलितवान्। इतरथा एलोनमस्कः भारतस्य प्रधानमन्त्रिणः प्रशंसाम् अकरोत्, भारतस्य कृते हितं कर्तुम् इच्छत: प्रधानमन्त्रिण: मोदिन: प्रशंसकः इति स: अवदत्।

न्यूयोर्कनगरे प्रधानमन्त्रिणा मोदिना सह समागमस्य अनन्तरं एलोनमस्कः वार्ताप्रसारमाध्यमै: सह वार्तालापं कुर्वन् अवदत् यत् भारतीयप्रधानमन्त्री वस्तुतः भारतस्य विषये अतीव चिन्तितः अस्ति तथा स: भारते महत्त्वपूर्णनिवेशार्थं प्रेरयति च।

अद्यतनवार्ता

भारतम्

विश्वम्