Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

झारखण्डस्य राजधान्यां राञ्चीनगरे सोमवासरे इडी इति प्रवर्तननिदेशालयेन नवस्थानेभ्य: २८ कोटिभ्यः अधिकं रोकधनं प्राप्तम् अस्ति।

ग्रामीणविकासमन्त्रिण: आलमगीर-आलमस्य व्यक्तिगतसचिवस्य संजीवलालस्य सेवकस्य जहांगीरस्य गृहत:, सचिवस्य निकतवर्तिन: कार्यवाहकस्य मुन्नासिंहस्य, मार्गनिर्माणविभागस्य अभिअभियन्तु: विकासकुमारस्य, अन्यस्य च विभिन्नेभ्य: स्थानेभ्य: च महद् धनं प्राप्तमस्ति। 

२०२२ तमस्य वर्षस्य फरवरीमासे ग्रामीणविकासविभागस्य मुख्य-अभियन्तु: वीरेन्द्ररामस्य २४ स्थानेषु वीरेन्द्ररामस्य संस्था: विहाय १०० कोटिरूप्यकाणां सम्पत्तिः गृहीता। २०१९ तमस्य वर्षस्य नवम्बरमासे जमशेदपुरे सुरेशप्रसादस्य गृहत: २.६७ कोटिरूप्यकाणां धनं प्राप्तम्। तदा स: उक्तवान् एतत् धनं मुख्य अभियन्तु: वीरेन्द्ररामस्य अस्ति। अन्वेषणानन्तरं इतोऽपि प्रभूतं धनं प्राप्तम्।

२०२३ तमस्य वर्षस्य डिसेम्बरमासस्य ६ दिनाङ्के आयकरविभागेन काङ्ग्रेसराज्यसभासांसदस्य धीरजसाहू इत्यस्य १० स्थानेभ्य: ३०० कोटिरूप्यकाणि ततोऽपि अधिकमूल्यस्य रोकधनं प्राप्तम्।

ईडी इत्यनेन वर्षद्वयात् पूर्वं अवैधखननप्रकरणेषु देशे सर्वत्र अन्वेषणं कृतम्। झारखण्डस्य आईएएस अधिकारिण्या: पूजासिंघलस्य 25 स्थानेभ्य: तथा तस्या: निकटस्थानां स्थानेभ्य: १९.३१ कोटिरूप्यकाणि प्राप्तानि।

एतत् तु केवलं नाममात्रम्। अत्र दोष: कस्य ? उत्कोचं स्वीकर्तॄणां अधिकारिणां नेतॄणां? स्वस्वार्थपूर्तये उत्कोचं ये यच्छन्ति तेषां? नियमानां वा? संस्कृत-उक्ति: स्मर्यते - 

टका धर्मः टका कर्म टका हि परमं तपः। 

यस्य हस्ते टका नास्ति हाटके टकटकायते॥

अद्यतनवार्ता

भारतम्

विश्वम्