Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

वायुविज्ञानविभागेन आगामिषु २४ घण्टासु बिहार-तेलाङ्गाना-राज्ये विहाय देशस्य सर्वेषु राज्येषु अत्यधिकवृष्टिः भविष्यति इति सम्भावना प्रकटिता। जम्मू-कश्मीरे अत्यधिकवृष्ट्या, दुर्वहवातावरणेन च अमरनाथयात्रा स्थगिता अस्ति।

उत्तराखण्डस्य चमोलीनगरे पर्वतात् पाषाणानां पतनेन बद्रीनाथराजमार्गः अपि पीहित: अस्ति। अयं राजमार्गः गतदशदिनेषु चतुर्थवारं पीहित: जात: अस्ति। तस्मिन् पिथोरागढमण्डलस्य धारचुलायां शुक्रवासरे मेघस्फोटस्य कारणेन एकः सेतुः क्षतिग्रस्त: अभवत्। अत्र चल इति ग्रामे २०० जनाः निबद्धा:। तेषाम् उद्धाराय गच्छन् एसडीआरएफ-दलः तत्र गन्तुमसमर्थ: अस्ति।

अपरपक्षे केरलस्य अनेकेषु मण्डलेषु निरन्तरं वर्षा भवति। कन्नूर्-कासरगोड्-नगरयोः रक्तवर्णीया सचेतना उद्घोषिता अस्ति। 

गुरुवासरे देशे सर्वत्र पृथक् पृथक् घटनासु २० जनाः मृताः। केवलं उत्तरप्रदेशे मध्यप्रदेशे च विद्युत्पातेन १३ जनाः मृता:।

अद्यतनवार्ता

भारतम्

विश्वम्