Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केनेडादेशस्य मिसिसौगानगरे इन्वेस्ट् इण्डिया इन्वेस्ट् कनाडा इति कार्यक्रमः आयोजितः यस्मिन् केनेडा-देशस्य हिन्दु-वाणिज्यसङ्घः (CHCC) भारत-कनाडा-देशयोः व्यापारं अधिकं सुदृढं कर्तुं संकल्पं कृतवान् । अस्मिन् कार्यक्रमे उभयो: देशयो: १२५ तः अधिकाः व्यापारिणः भागं गृहीतवन्तः। अस्य आयोजनस्य मुख्यविषयः उभयोः देशयोः खनन-कृषिक्षेत्रयोः सुदृढीकरणम् आसीत् ।

अवसरेऽस्मिन् हिन्दू-व्यापार-मंडल-सदस्य: अजयशाह: उक्तवान् सः कनाडादेशे हिन्दुविद्यालयस्य आरम्भ: भविष्यति यस्मिन् वैदिकानि शाश्वतमूल्यानि अपि समाविष्टानि भविष्यन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्