Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पाकिस्तानस्य पूर्वप्रधानमन्त्री नवाजशरीफः प्रायः चतुर्वर्षेभ्यः अनन्तरं शनिवासरे स्वदेशं प्रत्यागतवान्। लंदनत: पाकिस्तानदेशं प्रत्यागत्य नवाजः लाहौरनगरे विशालं सभां सम्बोधितवान्। तत्र सः भारतेन सह सुसम्बन्धं स्थापयितुं संकेतं दत्तवान्। नवाजः अवदत् यत् अस्माभिः स्वपरिजनेन सह सुसम्बन्धः स्थापनीयः। विश्वेन सह समन्वयः सुदृढः कर्तव्यः भविष्यति। प्रतिवेशिभिः सह युद्धं कृत्वा वयं प्रगतिम् कर्तुं न शक्नुमः। विश्वेन सह सुसम्बन्धं न स्थापयित्वा स्वदेशं प्रगतेः मार्गे नेतुम् न शक्नुमः। अतः अस्माभिः सर्वैः सह सुसम्बन्धः स्थापनीयः, तदा एव वयं अग्रे गन्तुं शक्नुमः। अस्माभि: साम्प्रदायिक-एकता सुदृढा कर्तव्या भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्