Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

ह्य: रात्रौ नेपालदेशे आगतात् भूकम्पात् मृतकानां संख्या अधुना १५७ जाता अस्ति। भूकम्पस्य अधिकतमः प्रभावः उत्तरपश्चिमीयभागे  जाजरकोट-रुकुम-पश्चिममण्डलेषु दृष्टः। अधिकारिणः अवदन् यत् भूकम्पस्य तीव्रता तीव्रा नास्ति किन्तु क्षेत्रे निर्माणस्य दुर्गुणतायाः कारणात् क्षतिः, मृतानां च संख्या अधिका भवितुम् अर्हति इति। राष्ट्रियभूकम्पनिरीक्षणानुसन्धानकेन्द्रेण प्रख्यापितं यत् ह्य: दूरापन्नस्य भूकम्पानन्तरं नवपञ्चाशदधिकशतं वारं कम्पनं अनुभूतम्। काठमण्डूनगरे भारतीयदूतावासेन सहायतार्थं आपत्कालिकी दूरभाषसंख्या 977-9851316807 इत प्रसारिता।

अद्यतनवार्ता

भारतम्

विश्वम्