Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

  गुजरातस्य वटोदरजनपदे सीबीएसई इत्यस्य सहोदय-विद्यालय-मण्डलद्वारा आयोजिते विद्यालय-आचार्याणां शिक्षणविदां च राष्ट्रिय-सम्मेलने सीबीएसई-अध्यक्षा निधिछिब्बर कथितवती यत् केन्द्रसर्वकारस्य शिक्षणविभागेन रचितायाः नूतनशिक्षणनीतेः अनुसारं विद्यालयेषु आगामिवर्षात् 5+3+3+4 योजनानुसारं कक्षाविभाजनं भविष्यति इति। नूतनशिक्षणनीतेः रचनानन्तरं कोरोनाप्रभावात् तस्य विनियोगाय विलम्बः जायमानः अस्ति परन्तु अधुना क्रमेण तस्य विनियोगः भविष्यति। एतेन प्रवर्तमानः 10+2 शिक्षणस्य उपक्रमः अपगमिष्यति। सम्मेलनेऽअस्मिन् आधुनिकतन्त्रज्ञानस्य आवश्यकता, कौशलाधारित-शिक्षणं, 2030 वर्षानन्तरं शैक्षणिक-आवश्यकता, दक्षताधारितशिक्षणं, शिक्षकाणां गुणवर्धनम् इत्यादयः विषयः शिक्षणविद्भिः चर्चिता:।

अद्यतनवार्ता

भारतम्

विश्वम्