Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

यथानुमानं, नीतीशकुमारः रविवासरे प्रातःकाले राज्यपालं राजेन्द्र अर्लेकरं प्रति त्यागपत्रम् अयच्छत्। सः राज्यपालं अवदत् यत् सः महागठबंधन इत्यस्मात् पृथक् भवितुं निश्चितवान् इति । तदनन्तरं सायं यावत् सः भाजपा-समर्थनेन नवमवारं मुख्यमन्त्रिपदस्य शपथमपि स्वीकृतवान्। विधानसभायां भारतीयजनतादलस्य ७८ विधायकाः, जदयू ४५, हम इत्यस्य ४ विधायकाः सन्ति। २४३ सदस्यीयविधानसभायां त्रयाणां दलानाम् योग: १२७ अस्ति, यत् १२२ इति बहुमतस्संख्यायाः अपेक्षया अधिकम् अस्ति। सत्यमेव उक्तं - राजनीतौ न कोऽपि कस्यापि शत्रु: मित्रं वा। 

अद्यतनवार्ता

भारतम्

विश्वम्