Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सॉफ्टवेयर उद्योगस्य दिग्गजः एन.आर.नारायणमूर्तिः बुधवासरे अवदत् यत् किमपि निःशुल्कं न दातव्यम् इति। इन्फोसिस् इत्यस्य सहसंस्थापकः नारायण-मूर्तिः बेङ्गलूरु टेक् सम्मेलने अवदत् यत् ये जनाः सर्वकारेण प्रदत्तानां सेवानां अनुदानस्य च लाभं लभन्ते तै: समाजस्य कल्याणे योगदानं दातव्यम्। अहं निःशुल्कसेवाप्रदानस्य विरोधी नास्मि, यतः अहमपि दारिद्र्यात् बहिः आगतः, परन्तु ये निःशुल्कं अनुदानं प्राप्तवन्तः तेभ्यः प्रतिदानरूपेण किमपि अपेक्षितव्यम्। राष्ट्रियशिक्षानीतेः कृते नरेन्द्रमोदीसर्वकाराय अभिनन्दन् मूर्तिः अवदत् यत् एतत् योग्यदिशि एकं सोपानम् अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्