Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

धर्मस्य नाम्ना अतिवादं आतङ्कवादं च प्रसारयन् वर्णपरिवर्तनपटु: पाकिस्तानदेशः अधुना मुस्लिमबहुलयुक्ते पाकिस्ताने निवसन्तः १७ लक्षं अफगानिस्तानस्य मुसलमानान् पाकिस्तानात् बहिः क्षिप्तवान् अस्ति। वर्षाणि यावत् पाकिस्ताने निवसन्तः एते अफगानिस्तानदेशिनः एकस्मिन् दिने एव शरणार्थिनः अभवन्, अधुना अत्र–तत्र शरणं याचतां तेषां स्थितिः तावत् दुर्गता यत् ते शैत्ये आच्छादनं भोजनं वा न प्राप्नुवन्ति। शरणार्थिनां सहायतां कुर्वद्भि: संस्थाभि: उक्तं यत् पाकिस्तानेन तेषां आभूषणानि, सुवर्णं, बहुमूल्यवस्तूनि अपहृतानि। रिक्तहस्ता: ते क्रूरतया बहि: क्षिप्ताः।

आश्चर्यं यत् कश्मीर-हमास-रोहिंग्या इत्यादिषु प्रकरणेषु मत्तप्रलापं कुर्वन्त: विभिनमुस्लिमदेशीया:, जे.एन.यु. मार्गभ्रष्टा: छात्रा:, तथाकथिता: सत्तालोलुपा: नेतार: वा एकं वाक्यमपि न वदन्ति !!

अद्यतनवार्ता

भारतम्

विश्वम्