Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पाकिस्ताने अफगानिस्तानशरणार्थिनां विषये कोलाहलः व्याप्त: अस्ति। पाकिस्तानसर्वकारेण १० लक्षाधिकेभ्य: अफगानिस्तानदेशियेभ्य: देशात् निर्गन्तुमादेश: दत्तः। प्राप्तवार्तानुसारं पाकिस्ताने अफगानिस्तानमूलस्य ४० लक्षाधिकाः जनाः निवसन्ति, येषु १७ लक्षं जनानां समीपे परिचयप्रमाणपत्राणि न सन्ति। अफगानिस्तानशरणार्थिनाम् उद्धारक: भूत्वा पाकिस्तानदेशः अन्ताराष्ट्रियस्तरे प्रशंसां प्राप्तवान् अस्ति, परन्तु अधुना शरणार्थिन: पाकिस्तानसर्वकाराय भारयुक्ता: जाता:  अभवत् । १९७९ तमे वर्षे शीतयुद्धकाले सोवियतसङ्घः (रूसः) अफगानिस्तानदेशे आक्रमणं कृतवान् तदा आरभ्य अफगानिस्तानदेशस्य शरणार्थिनः पाकिस्ताने निवसन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्