Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

विवासरे सायं प्रधानमन्त्री नरेन्द्रमोदी पापुआ न्यूगिनीदेशं प्राप्तवान्। राजधानी पोर्ट् मोरेस्बी इत्यत्र प्रधानमन्त्रिणा जेम्स् मारेप् इत्यनेन मोदिनः स्वागतं कृतम् । मरेपः मोदिनः पादयोः स्पर्शं कृत्वा स्वागतं कृतवान् । तदनन्तरं प्रधानमन्त्री मोदी इत्यस्मै विमानस्थानके एव राजकीयसम्मान: दत्त: । भारतीयप्रधानमन्त्रिणः भारतप्रशान्तप्रदेशस्य एषा प्रथमयात्रा अस्ति ।

एएनआई इति समाचारसंस्थायाः अनुसारं पापुआ न्यूगिनीदेशस्य सर्वकारेण स्वपरम्परां त्रोटयित्वा प्रधानमन्त्रिणः मोदिनः स्वागतं कृतम् अस्ति। वस्तुतः अस्मिन् देशे सूर्यास्तस्य अनन्तरं कस्यापि विदेशीयस्य अतिथे: राज्यसम्मानेन स्वागतं न क्रियते। परन्तु भारतस्य महत्त्वं दृष्ट्वा तत्रत्येन सर्वकारेण अयं निर्णय: कृत:।

अद्यतनवार्ता

भारतम्

विश्वम्