Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

निजचिकित्सालयेषु एटीएम इव रोगिणां उपयोगः भवति। इलाहाबाद उच्चन्यायालयेन गुरुवासरे एकस्य प्रकरणस्य वादश्रवणसमये एषा टिप्पणी कृता। उच्चन्यायालयेन प्रमादप्रकरणे वैद्यस्य विरुद्धं आपराधिकप्रकरणं निरस्तं कर्तुं कृतस्य आग्रह: नाङ्गीकृत:। 

उच्चन्यायालयेन उक्तं यत् इदानीं सामान्यं जातम् यत् चिकित्सालयाः प्रथमं रोगिणः प्रवेशयन्ति ततः यत्किमपि शल्यक्रियायाः कृते सम्बन्धितवैद्यं आह्वयन्ति। एवम् वैद्यानाम् अभावेऽपि रोगिणः प्रवेशं प्राप्नुवन्ति। ते प्रवेशं प्राप्य धनसंग्रहणं कुर्वन्ति। निजचिकित्सालयाः एटीएम इव रोगिणां उपयोगं कुर्वन्ति, तेभ्यः धनं निष्कासयन्ति।

चित्रम् - प्रतीकात्मकम् 

अद्यतनवार्ता

भारतम्

विश्वम्