शुक्रवासरे रक्षाप्रमुख: (CDS) जनरल् अनिल चौहानः अवदत् यत् 'ऑपरेशन सिन्दूर' अद्यापि प्रचलति, सेनाभि: सर्वदा जागरुकै: भवितव्यम्। शस्त्राणि शास्त्राणि च युद्धाय आवश्यकानि इति वर्णितवान्। सेना: च सर्वदा २४x७ ३६५ दिवसा: सज्जा: भवेयु:। सः युद्धं न केवलं शस्त्रैः, अपितु शास्त्रैः अर्थात् ज्ञानेन अपि युद्धं भवति इति उक्तवान्। सः अवदत् यत् अद्यतनयुद्धं पारम्परिक-आधुनिक-पद्धतीनां मिश्रणम् अस्ति, यस्मिन् काइनेटिक-(शस्त्र-आधारित) नॉन-काइनेटिक-(सूचना-आधारित) च रणनीतयः सन्ति।