Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतस्य उपराष्ट्रपतिः जगदीपधनखड: सोमवासरे (जुलाई २१) स्वपदात् त्यागपत्रं दत्तवान् । सः स्वास्थ्यकारणानि चिकित्सापरामर्शं च उद्धृत्य राष्ट्रपतिद्रौपदी मुर्मू इत्यस्यै लिखितपत्रेण एतत् घोषितवान् । स: स्वस्य त्यागपत्रे लिखितवान् यत्, ‘संसद: आदरणीयानां सदस्यानां स्नेहः, विश्वासः, सम्माननं च मया प्राप्तं तत् अहं जीवनपर्यन्तं स्मरिष्यामि।’ उपराष्ट्रपतित्वेन स्वस्य कार्यकालस्य स्मरणं कुर्वन् सः अवदत् यत्, ‘अस्माकं महति लोकतन्त्रे उपराष्ट्रपतित्वेन मया प्राप्तस्य अनुभवस्य दृष्टिकोणस्य च कृते अहं कृतज्ञः अस्मि। 

अद्यतनवार्ता

भारतम्

विश्वम्