भारते डिजिटल-विनिमयस्य उत्साह: अत्यन्तं वर्धितः अस्ति। एतादृशे सति आरबीआइ-अध्यक्षस्य निवेदनमस्ति यत् भुक्तिसेवाः दीर्घकालं यावत् निःशुल्कं चालयितुं न शक्यन्ते। उल्लेखनीयं यत् सम्प्रति यूपीआई-विनिमयस्य कोऽपि शुल्कः न स्वीक्रियते।
मुम्बईनगरे एकस्मिन् कार्यक्रमे आरबीआइ-अध्यक्ष: संजयमल्होत्रा उक्तवान् यत्, 'एतत् मूल्यं केनापि तु दातव्यं भविष्यति।' काऽपि सेवा विशेषतः भुक्तिव्यवस्था दीर्घकालं यावत् निःशुल्कं चालयितुं न शक्यते।' उल्लेखनीयं यत् यूपीआई इत्यनेन अद्यैव विश्वविक्रमः स्थापित:। २०२५ तमस्य वर्षस्य जूनमासे यूपीआइ-द्वारा २४.०३ लक्षकोटिरूप्यकाणां १८.३९ अर्बुदविनिमया: सन्ति। अधुना भारतं डिजिटल-विनिमये वैश्विक-अग्रणी अभवत्।
ज्ञातव्यं यत् वक्तव्यमिदं केवलं सङ्केत: अस्ति। काऽपि आधिकारिकघोषणा न कृता। भविष्ये यूपीआई-शुल्कं गृहीतं भविष्यति वा, व्यापारिभ्यः वा सर्वेभ्यः उपयोक्तृभ्यः वा शुल्कं गृहीतं भविष्यति वा इति अपि स्पष्टं न नास्ति।