Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

विदेशमन्त्रालयस्य समितिसमागमे कोंग्रेसनेता राहुलगान्धी ब्रिटेनदेशे दत्तस्य वक्तव्यस्य विषये स्पष्टीकृतवान्। सः अवदत् यत् मम वचनं कस्यापि देशस्य, सर्वकारस्य वा विषये न आसीत्। राहुलः अवदत् – मम वचनं कस्यचित् व्यक्तिविषये आसीत्। अहं भारतस्य लोकतन्त्रस्य विषये कथितवान्। मया अस्मिन् विषये अन्यस्य कस्यापि देशस्य हस्तक्षेपाय न उक्तम्।

प्राप्तप्रतिवेदनानुसारं विदेशमन्त्रालयेन शनिवासरे संसदीयपरामर्शसमितेः सभा आहूता आसीत्। अस्मिन् जी-२० मध्ये भारतस्य अध्यक्षतायाः विषये चर्चा अभवत्। अस्मिन् सत्रे राहुलगान्धिना पूर्वोक्तस्य कथनस्य स्पष्टता कृता। मेलनाध्यक्षेण एस.जयशङ्करेण उक्तं यत् स्पष्टता इयं संसदि भवेत्। अयं योग्य: मञ्च: नास्ति।

अद्यतनवार्ता

भारतम्

विश्वम्