Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

महाराष्ट्रस्य औरंगाबादनगरस्य नाम छत्रपतिसंभाजीनगर इति परिवर्तनस्य एकमासपश्चात् रामनवमीपर्वणि क्षुब्धपरिस्थितिः उत्पन्नाः। अत्र किराडपुरे रामनवमी-अवसरे यूनां समूहद्वये परस्परं संघर्षं जातम्। 

अनियंत्रितजनसमूहेन आरक्षकाणाम् उपरि आक्रमणं कृत्वा आरक्षकवाहनेषु अश्मापातः कृतः। अस्मिन् आक्रमणे द्वौ पुलिसकर्मचारिणौ पञ्चषट् जनाः च घातिताः। अपराह्णे ११.३० वादने आरब्धा हिंसा प्रातः सार्धत्रिवादनपर्यन्तम् अचलत्।

किराडपुरास्थिते राममन्दिरे रामनवम्याः सज्जता प्रचलति स्म। रात्रौ ११.३० वादनस्य समीपे यूनां समूहः मन्दिरं प्रति गच्छति स्म। अत्र अन्येन समूहेन उद्घोषं वादविवादं च कृत्वा युद्धं आरभत। केचन जनाः स्वप्राणान् रक्षितुं मन्दिरं प्रविष्टवन्तः, तेषां उपरि अपि आक्रमणं कृतम्। जनाः आरक्षकदलम् आहूतवन्तः, परन्तु यावत् आरक्षकाः आगतवन्तः तावत् अग्निज्वालनम् आरब्धम् आसीत् । 

अद्यतनवार्ता

भारतम्

विश्वम्